वांछित मन्त्र चुनें

दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः । वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥

अंग्रेज़ी लिप्यंतरण

divaś cid ā vo mavattarebhyo vibhvanā cid āśvapastarebhyaḥ | vāyoś cid ā somarabhastarebhyo gneś cid arca pitukṛttarebhyaḥ ||

पद पाठ

दि॒वः । चि॒त् । आ । वः॒ । अम॑वत्ऽतरेभ्यः । वि॒ऽभ्वना॑ । चि॒त् । आ॒श्व॑पःऽतरेभ्यः । वा॒योः । चि॒त् । आ । सोम॑रभःऽतरेभ्यः । अ॒ग्नेः । चि॒त् । अ॒र्च॒ । पि॒तु॒कृत्ऽत॑रेभ्यः ॥ १०.७६.५

ऋग्वेद » मण्डल:10» सूक्त:76» मन्त्र:5 | अष्टक:8» अध्याय:3» वर्ग:8» मन्त्र:5 | मण्डल:10» अनुवाक:6» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वः) हे मन्त्रवचन के उपदेष्टा जनों ! तुम्हारे लिए (देवः-चित्-अमवत्तरेभ्यः) सूर्य से भी बलवत्तरों-अति प्रतापवालों के लिए (विभ्वना चित्) आकाश से भी (आश्वपस्तरेभ्यः) विद्याओं में शीघ्र अति व्यापकों के लिए (वायोः-चित्) वायु से भी (सोमरभस्तरेभ्यः) शान्त ज्ञानरूप अतिवेगवालों के लिए (अग्नेः-चित्) अग्नि से भी (पितुकृत्तरेभ्यः) सब अपना अन्न अत्यन्त करनेवालों के लिए-सब अन्न के अत्यन्त भक्षकों के लिए (आ अर्च) मैं प्रशंसा करता हूँ ॥५॥
भावार्थभाषाः - मन्त्रोपदेष्टा जन सूर्य से भी अधिक प्रतापी, तेजस्वी, आकाश से भी अधिक विद्याओं में व्यापक, वायु से भी अधिक शान्त प्रवाहवाले, अग्नि से भी अधिक ज्ञानान्न के पचानेवाले होने चाहिए और उनकी अर्चना करनी चाहिए ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वः) हे अद्रयो मन्त्रवचनोपदेष्टारः ! युष्मभ्यं (दिवः-चित्-अमवत्तरेभ्यः) सूर्यादपि खलु बलवत्तरेभ्यः प्रतापवत्तरेभ्योऽतीवप्रतापवद्भ्यः “अमो बलम्” [निरु० १०।२१] (विभ्वना चित् आश्वपस्तरेभ्यः) विभोः-आकाशादपि “विभुः-व्यापकः-आकाशः” [यजु० ५।३१ दयानन्दः] ‘टादेशः पञ्चमीस्थाने व्यत्ययेन’ शीघ्रं विद्यासु अतिव्यापकेभ्यः (वायोः-चित्-सोमरभस्तरेभ्यः) वायोरपि शान्तज्ञानरूपवेगवत्तरेभ्यः (अग्नेः-चित्-पितुकृत्तरेभ्यः) अग्नेरपि सर्वस्वान्नकर्तृतरेभ्यः सर्वान्नस्यातिभक्षकेभ्यः (आ-अर्च) अहमर्चामि प्रशंसामि “पुरुषव्यत्ययेन मध्यमः पुरुषः” ॥५॥